पूर्वम्: ६।१।१७९
अनन्तरम्: ६।१।१८१
 
सूत्रम्
तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकम्- अनुदात्तमहन्विङोः॥ ६।१।१८०
काशिका-वृत्तिः
तास्यनुदातेन्ङिददुपदेशाल् लसार्वधातुकम् अनुदात्तम् अह्न्विङोः ६।१।१८६

तासेरनुदात्तेतो ङितो ऽकारान्तोपदेशाच् च शब्दात् परं लसार्वधातुकम् अनुदात्तं च भवति ह्नुङिङित्येताभ्यां परं वर्जयित्वा। तासेस्तावत् कर्ता, कर्तारौ, कर्तारः। प्रत्ययस्वरापवादो ऽयम्। अनुदात्तेतः आस आस्ते। वस वस्ते। ङित् षूङ् सूते। शीङ् शेते। अदुपदेशात् तुदतः। नुदतः। पचतः। पठतः। अनुबन्धस्य अनैकान्तिकत्वादकारान्तोपदेश एव शप्। पचमानः। यजमानः। यद्यत्र मुककारमात्रस्य स्यात् तदा लसार्वधातुकम् अदुपदेशादनन्तरम् इति सिद्धो निघातः। अथाकारान्तस्य अङ्गस्य, तथा अपि लसार्वधातुकानुदात्तत्वे कर्तव्ये बहिरङ्गत्वातसिद्धः इति सिद्धम्। चित्स्वरो ऽप्यनेन लसार्वधातुकानुदात्तत्वेन परत्वाद् बाध्यते। तास्यादिभ्यः इति किम्? चिनुतः। चिन्वन्ति। ङिदयं श्नुः पूर्वस्य कार्यं प्रति न तु परस्य। उपदेशग्रहणं किम्? इह च यथा स्यात्, पचावः, पचामः इति। इह च मा भूत्, हतो, हथः इति। लग्रहणं किम्? कतीहपचमानाः। सार्वधातुकम् इति किम्? शिश्ये, शिश्याते, शिशियरे। अह्न्विङोः इति किम्? ह्नुते। यदधीते।
न्यासः
तास्यनुदात्तेन्ङिददुपदेशाल्लसर्वधातुकमनुदात्तमहन्विङोः। , ६।१।१८०

तासिप्रभृतीनां समाहारद्वन्द्वेन निर्देशः। "अद्रुपदेशात्()" इति। उपदिश्यत इत्युपदेशः, शास्त्रवाक्येषु खिलपाठे च यः प्रथममुच्चार्यते स इत्यर्थः। अच्चासावुपदेशश्चेत्यदुपदेशः। कर्मसाधनस्योपदेशशब्दस्याश्रयणम्(), भावसाधनस्य वा, नानेन सामानाधिकरण्यानुपपत्तेः। "लसार्वधातुकम्()" इति। षष्ठीसमासः। "अदुपदेशात्()" इति। पूर्ववत्? कर्मसाधनेनोपदेशशब्देन कर्मधारयः। वर्णग्रहणं सर्वत्र तदन्तविधिं प्रयोजयतित्यकारन्तोपदेशादित्यर्थः। "कत्र्ता" इति। करोतेर्लुट्(), आत्मनेपदपरथमपुरुषः, तस्य डारौरसः। एकवचने टेर्लोपः। द्विवचनबहुवचनयोः "रि च" ७।४।५१ इति सकारस्य। "आस्ते" इत्येवमादिषु "शेते" इत्येवंपर्यन्तेष्वदादित्वाच्छपो लुक्()। "वस्ते" इति। "वस आच्छादने" (धा।पा।१०२३)। "सूते" इति। "षूङ्? प्राणिगर्भविमोचने" (धा।पा।१०३१)। "शेते" इति। शीङः सार्वधातुके गुणः" ७।४।२१ इति गुणः। "तुदतः नुदतः" इति। तसन्ते एते। एवं "पचतः, पठतः" इत्येते अपि। ननु च व्यञ्जनान्तोऽयमुपदेशे शप्(), नकारान्तः, तत्? कथमिहानुदात्तत्वं भवति? इत्याह--"अनुबन्धस्य" इत्यादि। एकान्तः=एकदेशः; नैकान्तोऽनेकान्तः, तद्ग्रहणेन गृह्रत इति यावत्(), अनेकान्तस्य भावोऽनेकान्तत्वम्()। ततो हेतोरकारान्तोपदेश एव शप्(), न व्यञ्जनान्तः। तेन पचते--इत्यादावनुदात्तत्वं भवतीति भावः। अकारान्तत्वं तु शबकारस्य व्यपदेशिवद्भावात्()। "पचमानः, यजमानः" इति। शानच्()। कथं पुनरिहानुदात्तत्वम्(), यावता मुकाऽत्र व्यवधानम्()? इत्याह--"यद्यत्र" इत्यादि। मुगागमोऽयमकारमात्रस्य वा स्यात्()? अकारान्ताङ्गस्य वा? तत्र यद्यकारमात्रस्य तदाऽदुपदेशग्रहणेनैव तस्य ग्रहणमिति लसर्वधातुकमदुपदेशादनन्तरमेव भवति, व्यवधानाभावात्(), न हि स्वावयवो व्यवधायको भवति। तेनान्तरङ्गत्वात्? सिद्धो निघातः। "अथ" इत्यादिना द्वितीये पक्षे निधातस्यासिद्धत्वात्? प्रतिपादयति--"तथापि" इति। एवमपीत्यर्थः। लसर्वधातुकस्येत्यस्य सिद्धो निघात इति वक्ष्यमाणेन सम्बन्धः। "असिद्धः" इत्यस्यापि मुगित्यनेन प्रकृतेन। इतिकरणो हेतौ। तदयमर्थः--यस्माल्लसार्वधातुकानुदात्ते बहिरङ्गत्वान्म#उगसिद्धः, तस्मादेवमपि सार्वधातुकस्यानुदात्तत्वम्()। बहिरङ्गत्वं तु मुको बह्वपेक्षत्वात्()। स ह्रकारान्तविशिष्टमङ्गमाश्रयति, आनञ्च प्रत्ययविशेषम्()। अङ्गावयवमदुपदेशं लसार्वधातुकामात्रं निधातः। तस्मादसावन्तरङ्गः। स्वरविधित्वाच्च, उकग्तं हि स्वरविधेर्भाव्येऽन्तरह्गत्त्वम्()। ननु चाद्ये पक्षे मुकि कृते निघातो न सिध्यति, अदुपदेशादिति तपरकरणात्(), मुकि च कृते कालस्यातिरिच्यमानत्वात्()? नैष दोषः; यद्यवमपि कृतेऽर्धमात्राधिका भवति, तथाप्युपदेशग्रहणात्? सिध्यत्येव, उपदेशे मात्रिकस्यैवोच्चारणात्()। "चित्स्वरोऽप्यनेन" इत्यादि। चित्स्वरस्यावकाशः--"चलनशब्दार्थादकर्मकाद्युच्()" ३।२।१४८ चलनम्(), चोपनमिति, तास्यादिभ्योऽनुदात्तस्यावकाशः--आस्ते, शेत इति; इहोभयं प्राप्नोति--पचमानो यजमान इति परत्वाल्लसार्वधातुकानुदात्तत्वमेव चित्स्वरं बाघित्वा प्रवत्र्तते। "चिनुतः, चिन्वन्ति" इति। नु "सार्वधातुकमपित्()" १।२।४ इति श्नुरपि ङिदेव, तत्कथमिदं प्रत्युदाहरणमुपपद्यते? इत्याह--"ङिदयम्()" इत्यादि। "सार्वधातुकमपित्()" १।२।४ इत्यनेन पूर्वस्य कार्यमतिदिश्यते, न परस्य। तथा चोक्तम्()--सिद्धं तु पूर्वस्य कार्यातिदेशादिति। तस्मात्? पूर्वस्य कार्यं प्रति ङित्वं भवति, न तु परस्येत किमत्र नोपपद्यते। "इह च" इत्यादि। पचावः पचामः इत्यत्र हि "अतो दीर्घो यञि" (७।३।१०१) इति दीर्घत्वे कृते न स्यात्? असत्युपदेशग्रहणे। त()स्मस्तु सति शबकारोऽपि मात्रिक एवोपदिष्ट इति यद्यप्युत्तरकाल दीर्घत्वं भवति तथापि निघातो न भवतीति। "इह च मा भूदिति--हतः; हथ" इति। अत्र "अनुदात्तोपदेश" ६।४।३७ इत्यादिनाऽनुनासिकलोपे सत्युपदेशात्परं लसार्वधातुकं भवति, तत्रासत्युपदेशग्रहण इहापि स्यात्()। अस्मिस्तु सति न भवति, न हि हन्तिरवर्णान्त उपदिश्यते। किं तर्हि? व्यञ्जनान्तः। "पचमानाः" इति। "ताच्छील्यवयोवचनशक्तिषु चानश्()" ३।२।१२९ न च स लादेशः, अपि तु प्रत्ययः। लसर्वधातुकत्वं त्वस्य न विद्यते। "शिश्ये" इति। शीङो ह्रात्मनेपदे रूपम्(), "एरनेकाचः" ६।४।८२ इत्यादिना यणादेशः। "लिट्? च" ३।४।११५ इत्यार्धधातुकमेतत्()। "शिश्याते" इति। लिट()आतामि रूपम्()। नानुदात्तत्वम्(), असार्वधातुकसंज्ञाविधानात्()। "ह्यु ते, यदधीते" इति। "ह्यु ङ्? अपनयने" (धा।पा।१०८२) "इङ्? अध्ययने" (धा।पा।१०४६) यच्छब्दस्य प्रयोगः "निपातैयैद्यदि" ८।१।३० इति निघातप्रतिषेधो यथा स्यात्()॥